________________
२८
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्-श्रीतत्त्वार्थाधिगमसूत्रम्
४८. लब्धिप्रत्ययं च । ४९. शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव । ५०. नारकसम्मूर्छिनो नपुंसकानि । ५१. न देवाः। ५२. औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषोऽनपवायुषः ।
अथ तृतीयोऽध्यायः १. रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाश
प्रतिष्ठाः सप्ताधोऽधः पृथुतराः । २. तासु नरकाः। ३. नित्याशुभतरलेश्या-परिणाम-देहवेदना-विक्रियाः। ४. परस्परोदीरितदुःखाः । ५. संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः । ६. तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत् सागरोपमाः
सत्त्वानां परा स्थितिः।। ७. जम्बूद्वीपलवणादयःशुभनामानो द्वीपसमुद्राः। ८. द्विद्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः । ९. तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः । १०. तत्र भरतहैमवतहरिविदेहरम्यक्हिरण्यवतैरावतवर्षाः क्षेत्राणि । ११. तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलरुक्मिशिखरिणो
वर्षधरपर्वताः । १२. द्विर्धातकीखण्डे। १३. पुष्करार्धे च । १४. प्राङ्मानुषोत्तरान्मनुष्याः । १५. आर्या म्लिशश्च। १६. भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः । १७. नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते । तिर्यग्योनीनां च ।
अथ चतुर्थोऽध्यायः १. देवाश्चतुर्निकायाः । २. तृतीयः पीतलेश्यः।
For Personal & Private Use Only
www.jainelibrary.org