SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्-श्रीतत्त्वार्थाधिगमसूत्रम् . वाचकप्रवरश्रीउमास्वातिसंदृब्धम् (क)॥ श्री तत्त्वार्थाधिगमसूत्रम् ॥ प्रथमोऽध्यायः १. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। २. तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । ३. तन्निसर्गादधिगमाद्वा। ४. जीवा-जीवाश्रव-बन्ध-संवरनिर्जरामोक्षास्तत्त्वम् । ५. नामस्थापनाद्रव्यभावतस्तन्न्यासः । ६. प्रमाणनयैरधिगमः। ७. निर्देश-स्वामित्व-साधनाधिकरण-स्थितिविधानतः। ८. सत्सङ्ख्या क्षेत्र-स्पर्शन-कालान्तरभावाल्पबहुत्वैश्च । ९. मतिश्रुतावधिमनः पर्यायकेवलानि ज्ञानम् । १०. तत्प्रमाणे। ११. आद्ये परोक्षम्। १२. प्रत्यक्षमन्यत् । १३. मतिः स्मृतिः संज्ञा चिन्ताऽऽभिनिबोध इत्यनर्थान्तरम् । १४. तदिन्द्रियानिन्द्रियनिमित्तम्। १५. अवग्रहेहापायधारणाः । १६. बहुबहुविधक्षिप्रानिश्रितासंदिग्धध्रुवाणांसेतराणाम्। १७. अर्थस्य। १८. व्यञ्जनस्यावग्रहः । . १९. न चक्षुरनिन्द्रियाभ्याम् । २०. श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम् । २१. द्विविधोऽवधिः। २२. भवप्रत्ययो नारकदेवानाम् । २३. यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् । २४. ऋजुविपुलमती मनःपर्यायः । २५. विशुद्वयप्रतिपाताभ्यां तद्विशेषः । २६. विशुद्धिक्षेत्र-स्वामि-विषयेभ्योऽवधिमन:पर्याययोः । Jain Educationternational For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy