________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्-श्रीतत्त्वार्थाधिगमसूत्रम्
२७. मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु । २८. रुपिष्ववधेः । २९. तदनन्तभागे मनःपर्यायस्य । ३०. सर्वद्रव्यपर्यायेषु केवलस्य । ३१. एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्यः । ३२. मतिश्रुतावधयो विपर्ययश्च । ३३. सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् । ३४. नैगम सङ्ग्रह-व्यवहार-र्जुसूत्र-शब्दा नयाः। . ३५. आद्यशब्दौ द्वित्रिभेदौ।
अथ द्वितीयोऽध्यायः १. औपशमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक___पारिणामिकौ च। २. द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम्। ३. सम्यक्त्वचारित्रे। ४. ज्ञान-दर्शन-दान-लाभ- भोगोपभोगवीर्याणि च। ५. ज्ञाना-ज्ञान-दर्शन-दानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदा यथाक्रमं सम्यक्त्व
चारित्रसंयमासंयमाश्च । ६. गति-कषाय-लिङ्ग-मिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्चतुश्च__तुस्त्येकैकैकैकषड्भेदाः । ७. जीवभव्याभव्यत्वादीनि च । ८. उपयोगो लक्षणम्। ९. स द्विविधोऽष्टचतुर्भेदः। १०. संसारिणो मुक्ताश्च। ११. समनस्कामनस्काः । १२. संसारिणस्त्रसस्थावराः। १३. पृथिव्यब्वनस्पतयः स्थावराः । १४. तेजोवायू द्वीन्द्रियादयश्च त्रसाः । १५. पञ्चेन्द्रियाणि। १६. द्विविधानि। १७. निवृत्युपकरणे द्रव्येन्द्रियम् ।
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org