SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २४ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम् प्रमाणमीमांसा ६. वर्तमानमात्रपर्यायग्राही ऋजुसूत्रः । ७. कालादिभेदेन शब्दस्य भिन्नार्थवाचकत्वेन अभ्युपगमपरः शब्दः । ८. निरुक्तिभेदजन्यभिन्नपर्यायवाचकशब्दात् पदार्थनानात्वनिरुपकः समभिरुढः । ९. शब्दप्रवृत्तिनिमित्तभूतक्रियायुक्तस्य अर्थस्य ' तच्छब्दवाच्यत्वेन प्ररुपक एवम्भूतः । (द्वितीयस्याध्यायस्य तृतीयमाह्निकम् १. संयोग- समवाय-विशिष्ट - सामान्यान्यतमावच्छेदेन नास्तीति प्रतीतिविषयोऽत्यन्ताभावः । २. कार्याकारव्यावृत्तिमान् कार्यपूर्वपर्याय एव प्राग्भाव: ( प्रतियोग्युपादाने कार्यप्राक्कालावच्छेदेन एतत्कार्यं भविष्यति इति प्रतीतिविषयत्वं प्रागभावः)। ३. कार्याकारव्यावृत्तिमान् कार्योत्तरपर्यायो ध्वसः ( प्रतियोग्युपादाने कार्योत्तरकालावच्छेदेन एतत्कार्यं न उपलभ्यते ( नष्टम् ) इति प्रतीतिविषयत्वं ध्वंसः ) । ४. स्वरूपावच्छेदेन स्वरूपान्तरव्यवच्छेदानोऽन्योऽन्याभावः । ५. ज्ञानदर्शनचारित्रगुणवान् जीवात्मा । ६. जडत्वे सति आत्मनो विभावदशाजनकत्वं कर्म । ७. मिथ्यात्वाविरतिकषाययोगेन कर्मण आत्मना सह एकीभवनं कर्मबन्धः । ८. यथाध्यात्मम् असति सत्प्रकारिका बुद्धिः तत्कारणं वा मिथ्यात्वम् । ९. षट्कायवधषडिन्द्रियेभ्यो यतनया अनिवर्तनं अविरतिः । १०. जातिम्लानिवृद्धिप्रभृतिधर्मवान् सजीवः । ११. प्रमादवशात् प्राणिपीडनं हिंसा ॥१॥ ( प्रमादयोगेन शुभसंकल्पाभावे सति प्राणव्यपरोपणं हिंसा ) | १२. रागद्वेषजन्यो मनसः परिणामः कषायः ॥ ( भवप्रयोजकाध्यवसायः कषायः ) १३. आत्मपरिस्पन्दनप्रयोजकत्वं योगत्वम् । १४. जिनवचनविषयकास्तिक्यप्रयोजकत्वं सम्यक्त्वम् । १५. सम्यक्श्रद्धया यथावस्थितपदार्थावगमः सम्यग्ज्ञानम् । १६. ज्ञपरिज्ञानपूर्वकः पापव्यापारपरिहारः संयमः । १७. उपाधिमात्रध्वंसो मोक्षः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy