SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणमीमांसा १५. साध्यस्य निगमनम्। १६. असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः । १७. नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वाऽसिद्धः। १८. वादिप्रतिवाद्युभयभेदाच्चैतद्भेदः । १९. विशेष्यासिद्धादीनामेष्वन्तर्भावः । २०. विपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः । २१. नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः । २२. साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताभासाः। २३. अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटाः साध्यसाधनोभयविकलाः। २४. वैधर्येण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः । २५. वचनाद्रागे रागान्मरणधर्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वय व्यतिरेका रथ्यापुरुषादयः । २६. विपरीतान्वयव्यतिरेको । २७. अप्रदर्शितान्वयव्यतिरेको । २८. साधनदोषोद्भावनं दूषणम्। २९. अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि। ३०. तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः। ३१. स्वपक्षस्य सिद्धिर्जयः । ३२. असिद्धिः पराजयः। ३३. स निग्रहो वादिप्रतिवादिनोः । ३४. न विप्रतिपत्त्यप्रतिपत्तिमात्रम् । ३५. नाऽप्यसाधनाङ्गवचनमदोषोद्भावने । ३६. स्वेष्टार्थसाधकमबाधितं गूढपदसमूहात्मकं प्रसिद्धावयवोपेतं वाक्यं पत्रम् । (द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् ) १. अतिरस्कृतान्यपक्षोऽभिप्रेतपदार्थांशग्राही ज्ञातुरभिप्रायो नयः। २. द्रव्यपर्यायान्यतरस्य उभयस्य वा गौणमुख्यभावेन प्ररुपणप्रवीणो नैगमः। ३. अनिष्पन्नपर्यायस्य संकल्पमात्रग्राही नैगमः । ४. अभेदरूपतया वस्तुजातस्य संग्राहकः संग्रहः । ५. संग्रहगृहीतार्थानां भेदरूपतया विधिपूर्वकं व्यवहरणं व्यवहारः। Jain Education lifternational For Personal &Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy