________________
२२
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणमीमांसा
१०. सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः । ११. ऊहात् तन्निश्चयः। १२. स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् । १३. सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः । १४. प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः । १५. साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः । १६. धर्मी प्रमाणसिद्धः। १७. बुद्धिसिद्धोऽपि। १८. न दृष्टान्तोऽनुमानाङ्गम् । १९. साधनमात्रात् तत्सिद्धेः। २०. स व्याप्तिदर्शनभूमिः। २१. स साधर्म्यवैधाभ्यां द्वेधा। २२. साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः । २३. साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्यदृष्टान्तः ।
(द्वितीयस्याध्यायस्य प्रथममाह्निकम् ) १. यथोक्तसाधनाभिधानजः परार्थम्। २. वचनमुपचारात् । ३. तवेधा। ४. तथोपपत्त्यन्यथानुपपत्तिभेदात् । ५. नानयोस्तात्पर्ये भेदः। ६. अत एव नोभयोः प्रयोगः । ७. विषयोपदर्शनार्थं तु प्रतिज्ञा । ८. गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवत्
तदुपपत्तिः । ९. एतावान् प्रेक्षप्रयोगः। १०. बोध्यानुरोधात् प्रतिज्ञाहेतूदारणोपनयनिगमनानि पञ्चापि । ११. साध्यनिर्देशः प्रतिज्ञा। १२. साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः । १३. दृष्टान्तवचनमुदाहरणम् । १४. धर्मिणि साधनस्योपसंहार उपनयः | Private Use Only
Sail Education International
www.jainelibrary.org