________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणमीमांसा
२६. अक्षार्थयोगे दर्शनान्तरमर्थग्रहणमवग्रहः । २७. अवगृहीतविशेषाकाङ्क्षणमीहा । २८. ईहितविशेषनिर्णयोऽवायः। २९. स्मृतिहेतुर्धारणा। ३०. प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु। ३१. अर्थक्रियासामर्थ्यात् । ३२. तल्लक्षणत्वाद्वस्तुनः । ३३. पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियो
पपत्तिः। ३४. फलमर्थप्रकाशः। ३५. कर्मस्था क्रिया। ३६. कर्तृस्था प्रमाणम्। ३७. तस्यां सत्यामर्थप्रकाशसिद्धेः। ३८. अज्ञाननिवृत्तिर्वा । ३९. अवग्रहादीनां वा क्रमोपार्जनधर्माणां पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलम् । ४०. हानादिबुद्धयो वा। ४१. प्रमाणाद्भिन्नाभिन्नम्। ४२. स्वपराभासी परिणाम्यात्मा प्रमाता ।
(प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ) १. अविशदः परोक्षम्। २. स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः । ३. वासनोबोधहेतुका तदित्याकारा स्मृतिः। ४. दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं
प्रत्यभिज्ञानम्। ५. उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः । ६. व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः । ७. साधनात् साध्यविज्ञानम् अनुमानम् । ८. तत् द्विधा स्वार्थं परार्थं च। . ९. स्वार्थं स्वनिश्चितसाध्याविनाभावैकलक्षणात् साधनात् साध्यज्ञानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org