________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणमीमांसा
पू.आ.श्री हेमचन्द्रसूरीश्वरजी विरचिता
(ब) प्रमाणमीमांसा
(प्रथमस्याध्यायस्य प्रथममाह्निकम् ) १. अथ प्रमाणमीमांसा। २. सम्यगर्थनिर्णयः प्रमाणम्। ३. स्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावात्। . ४. ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् । ५. अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः । ६. विशेषानुल्लेख्यनध्यवसायः । ७. अतस्मिंस्तदेवेति विपर्ययः । ८. प्रामाण्यनिश्चयः स्वतः परतो वा । ९. प्रमाणं द्विधा। १०. प्रत्यक्षं परोक्षं च। ११. व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षेतरप्रमाणसिद्धिः। १२. भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः । १३. विशदः प्रत्यक्षम् । १४. प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम् । १५. तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् । १६. प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः। १७. बाधकाभावाच्च । १८. तत्तारतम्येऽवधिमनः पर्यायौ च । १९. विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः। २०. इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सांव्यवहारिकम्। २१. स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्रा
णीन्द्रियाणि द्रव्यभावभेदानि । २२. द्रव्येन्द्रियं नियताकाराः पुद्गलाः । २३. भावेन्द्रियं लब्ध्युपयोगौ । २४. सर्वार्थग्रहणं मनः। २५. नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org