SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणमीमांसा ४. तथैव तत्त्वं प्रतिष्ठापयिषुस्तत्त्वनिर्णिनीषुः । ५. अयं च द्वेधा स्वात्मनि परत्र च । ६. आद्यः शिष्यादिः। ७. द्वितीयो गुर्वादिः। ८. अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च । ९. एतेन प्रत्यारम्भकोऽपि व्याख्यातः । १०. तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौःस्थ्यापत्तेः । ११. द्वितीये तृतीयस्य कदाचिद् द्वयङ्गः, कदाचित् व्यङ्गः। १२. तत्रैव व्यङ्गस्तुरीयस्य । १३. तृतीये प्रथमादीनां यथायोगं पूर्ववत् । १४. तुरीये प्रथमादीनामेवम् । १५. वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि । १६. प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ । १७. प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म । १८. वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्ति माध्यस्थ्यैरुभयाभिमताः सभ्याः।। १९. वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादो त्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणम्, यथावसरं तत्त्वप्रकाशनेन कथाविरमणम्, यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि। २०. प्रज्ञाऽऽज्ञैश्चर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः। २१. वादिसभ्याभिहितावधारणं कलहव्यपोहादिकं चास्य कर्म । २२. सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् । २३. उभयोस्तत्त्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णयं, यावत् स्फूर्ति च वाच्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy