SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १८ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणमीमांसा ४३. यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्द___प्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः । ४४. एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः । ४५. शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः। ४६. पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषयः । ४७. सन्मात्रगोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः । ४८. सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः। ४९. वर्तमानविषयाऋजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादन ल्पार्थः। ५०. कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाऋजुसूत्रस्तद्विपरीतवेदकत्वान् महार्थः। ५१. प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायि त्वात् प्रभूतविषयः । ५२. प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथाऽर्थ स्थापकत्वान्महागोचरः। ५३. नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्र जति। ५४. प्रमाणवदस्य फलं व्यवस्थापनीयम् । ५५. प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा। ५६. चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलिकादृष्टवांश्चायम् । ५७. तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः। (अष्टमः परिच्छेदः) १. विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः । २. प्रारम्भकश्चात्र जिगीषुः तत्त्वनिर्णिनीषुश्च । ३. स्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः । Jain Education international For Personal Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy