________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
१७
१९. द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकाम
वलम्बमानः पुनरपरसङ्ग्रहः ।। २०. धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा। २१. द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिह्ववानस्तदाभासः। २२. यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः। २३. सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना
क्रियते स व्यवहारः। . २४. यथा-यत् सत्, तद् द्रव्यं पर्यायो वेत्यादिः। २५. यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः। २६. यथा चार्वाकदर्शनम् । २७. पर्यायार्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च । २८. ऋजु-वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः। २९. यथा-सुखविवर्त्तः सम्प्रत्यस्तीत्यादि। ३०. सर्वथा द्रव्यापलापी तदाभासः । ३१. यथा-तथागतमतम्। ३२. कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । ३३. यथा-बभूव भवति भविष्यति सुमेरूरित्यादिः । ३४. तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः । ३५. यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्न
मेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः । ३६. पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । ३७. इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्दारणात् पुरन्दर इत्यादिषु यथा । ३८. पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः । ३९. यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया एव, भिन्नशब्द
त्वाद् करिकुरङ्गतुरङ्गशब्दवदित्यादिः । ४०. शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युप
गच्छन्नेवम्भूतः । ४१. यथेन्दनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः, पूरणप्रवृत्तः पुरन्दर
इत्युच्यते । ४२. क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तु तदाभासः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org