________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
८२. तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति, तस्मात् परिणामी कुम्भ
इति च । ८३. अनाप्तवचनप्रभवं ज्ञानमागमाभासम् । ८४. यथा-मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखर्जुराः
सन्ति, त्वरितं गच्छत गच्छत शावकाः। ८५. प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याभासम्। ८६. सामान्यमेव, विशेष एव, तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः । ८७. अभिन्नमेव, भिन्नमेव वा प्रमाणात् फलं, तस्य तदाभासम् ।
(सप्तमः परिच्छेदः १. नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः
स प्रतिपत्तुरभिप्रायविशेषो नयः । २. स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः । ३. स व्याससमासाभ्यां द्विप्रकारः। ४. व्यासतोऽनेकविकल्पः । ५. समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च । ६. आद्यो नैगमसङ्ग्रहव्यवहारभेदात् त्रेधा। ७. धर्मयोधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स
नैकगमो नैगमः। ८. सच्चैतन्यमात्मनीति धर्मयोः। ९. वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः। १०. क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः । ११. धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः । १२. यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः । १३. सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । १४. अयमुभयविकल्पः परोऽपरश्च । १५. अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः
परसङ्ग्रहः। १६. विश्वमेकं सदविशेषादिति यथा। १७. सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः । १८. यथा-सत्तैव तत्त्वं, ततः पृथग्भूतानां विशेषाणामदर्शनात् ।
१। यथा-सत्त Jai Education Internationa
पO..
यमिता For Pedonal & Private Use Only
www.jainelibrary.org