________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
६९. वैधयेणापि दृष्टान्ताभासो नवधा। ७०. असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः,
सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभय
व्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च । ७१. तेषु भ्रान्तमनुमानं प्रमाणत्वात्, यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं,
यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः, स्वप्नज्ञानात् भ्रान्तत्व
स्यानिवृत्तेः। ७२. निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद्, यत् तु सविकल्पकं न तत्प्रमाणं, यथा
लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात् प्रमाणत्वस्यानिवृत्तेः । ७३. नित्यानित्यः शब्दः सत्त्वात्, यस्तु न नित्यानित्यः स न सन्, तद्यथा स्तम्भ
इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः। ७४. असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद्, यः सर्वज्ञ आप्तो ___ वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः
सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्मयोावृत्तेः सन्देहात् । ७५. अनादेयवचनः कश्चिद् विवक्षितपुरुषो रागादिमत्त्वाद्, यः पुनरादेय
वचनः स वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः,
शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् । ७६. न वीतरागः कपिलः, करुणास्पदेष्वपि परमकृपयाऽनर्पितनिजपि
शितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागाभावस्य करुणास्पदेष्वपि परमकृपयाऽनपितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् । ७७. न वीतरागः कश्चिद् विवक्षितः पुरुषो वक्तृत्वात्, यः पुनर्वीतरागो न स
वक्ता यथोपलखण्ड इत्यव्यतिरेकः ।। ७८. अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः । ७९. अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथाऽऽकाशमितिविपरीत
व्यतिरेकः । ८०. उक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ। ८१. यथा परिणामी शब्दः, कृतकत्वाद्, यः कृतकः स परिणामी, यथा कुम्भ
इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org