________________
१४
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
४५. स्ववचननिराकृतसाध्यधर्मविशेषणो यथा-नास्ति प्रमेयपरिच्छेदकं
प्रमाणम्। ४६. अनभीप्सितसाध्यधर्मविशेषणो यथा-स्याद्वादिनः शाश्वतिक एव
कलशादिरशाश्वतिक एव वेति वदतः । ४७. असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः । ४८. यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः। ४९. स द्विविध उभयासिद्धो-ऽन्यतरासिद्धश्च । ५०. उभयासिद्धोयथा-परिणामी शब्दश्चाक्षुषत्वात्। ५१. अन्यतरासिद्धो यथा- अचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षण____ मरणरहितत्वात् । ५२. साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः । ५३. यथा-नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिमत्त्वात् । ५४. यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ।। ५५. स द्वेधा-निर्णीतविपक्षवृत्तिकः, सन्दिग्धविपक्षवृत्तिकश्च । ५६. निर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् । ५७. सन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः सर्वज्ञो न भवति
वक्तृत्वात् । ५८. साधर्म्यण दृष्टान्ताभासो नवप्रकारः॥ ५९. साध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः, सन्दिग्ध
साध्यधर्मा, सन्दिग्धसाधनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयोऽ
प्रदर्शितान्वयो, विपरीतान्वयश्चेति । ६०. तत्रापौरुषेयः शब्दोऽमूर्तत्वात् दुःखवदिति साध्यधर्मविकलः । ६१. तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः । ६२. कलशवदित्युभयधर्मविकलः ।। ६३. रागादिमानयं वक्तृत्वात् देवदत्तवदिति सन्दिग्धसाध्यधर्मा । ६४. मरणधर्माऽयं रागादिमत्त्वात् मैत्रवदिति सन्दिग्धसाधनधर्मा । ६५. नायं सर्वदर्शी रागादिमत्त्वात् मुनिविशेषवदिति सन्दिग्धोभयधर्मा । ६६. रागादिमान् विवक्षित पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः । ६७. अनित्यः शब्दः कृतकत्वात् घटवदित्यप्रदर्शितान्वयः । ६८. अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत् कृतकं घटवदिति Jan Edविपरीतान्वयः ।
For Personal & Private Use Only
www.jainelibrary.org