________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
२२. ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः
स्वीकर्तव्यः । २३. प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् । २४. अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः
प्रमाणस्य स्वरूपाभासाः। २५. यथा-सन्निकर्षाद्यस्वसंविदितपरानवभासक-ज्ञानदर्शन-विपर्यय
संशयानध्यवसायाः। २६. तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः । २७. सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् । २८. यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च । २९. पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम्। ३०. यथा-शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् । ३१. अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम् । ३२. अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा । ३३. तुल्ये पदार्थे स एवायमिति, एकस्मिश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभि
ज्ञानाभासम्। ३४. यमलकजातवत् । ३५. असत्यामपि व्याप्तौ तदवभासस्तर्काभासः। ३६. स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति यथा । ३७. पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम्। ३८. तत्र प्रतीतनिराकृतान-भीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः । ३९. प्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान् प्रत्यवधारणवर्ज परेण
प्रयुज्यमानः समस्ति जीव इत्यादिः । ४०. निराकृतसाध्यधर्म-विशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः
साध्यधर्मस्य निराकरणादनेकप्रकारः । ४१. प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा-नास्ति भूतविलक्षण आत्मा । ४२. अनुमाननिराकृतसाध्यधर्मविशेषणो यथा-नास्ति सर्वज्ञो वीतरागो वा । ४३. आगमनिराकृतसाध्यधर्मविशेषणो यथा-जैनेन रजनीभोजनं
भजनीयम्। ४४. लोकनिराकृतसाध्यधर्मविशेषणो यथा-न पारमार्थिकः प्रमाणप्रमेय
व्यवहार. । Jain Educatole tetrattonal
For Personal & Private Use Only
www.jainelibrary.org