________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
७. गुणः सहभावी धर्मो यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः । ८. पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ।
(षष्ठः परिच्छेदः) १. यत्प्रमाणेन प्रसाध्यते तदस्य फलम् । २. तद् द्विविधमानन्तर्येण पारम्पर्येण च । ३. तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् । ४. पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् । ५. शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ।। ६. तत्प्रमाणतः स्याद् भिन्नमभिन्नं च प्रमाण-फलत्वान्यथानुपपत्तेः । ७. उपादानबुद्ध्यादिना प्रमाणाद् भिन्नेन व्यवहितफलेन हेतोर्व्यभिचार इति
न विभावनीयम्। ८. तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः । ९. प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः । १०. यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिर
स्खलितमनुभवात् । ११. इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्येत । १२. अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्त
इति नाशङ्कनीयम्। १३. कथञ्चित्तस्यापि प्रमाणाद् भेदेन व्यवस्थानात् । १४. साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् । १५. प्रमाणं हि करणाख्यं साधनम् स्वपरव्यवसितौ साधकतमत्वात् । १६. स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम् प्रमाण
निष्पाद्यत्वात् । १७. प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदः । १८. कर्तृक्रिययोः साध्य साधकभावेनोपलम्भात् । १९. कर्ता हि साधकः, स्वतन्त्रत्वात्, क्रिया तु साध्या, कर्तृनिर्वर्त्यत्वात् । २०. न च क्रिया क्रियावतः सकाशादभिन्नैव, भिन्नैव वा, प्रतिनियतक्रिया
क्रियावद्भावभङ्गप्रसङ्गात् । २१. संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभि
मतसिद्धिविरोधात्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org