________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
३५. क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च
ध्वनिर्नान्यथेत्यपि मिथ्या । ३६. विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः। ३७. एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गी
प्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् । ३८. विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव
सम्भवात्। ३९. प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् । ४०. तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् । ४१. तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् । ४२. तस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्व
स्यैवोपपत्तेः। ४३. इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । ४४. प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्याद
भेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः । ४५. तद्विपरीतस्तु विकलादेशः।। ४६. तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगम-विशेषस्वरुपसामर्थ्यतः
प्रतिनियतमर्थमवद्योतयति । ४७. न तदुत्पत्तितदाकारताभ्याम्, तयोः पार्थक्येन सामस्त्येन च व्यभिचारोपलम्भात्।
(पञ्चमः परिच्छेदः) १. तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु । २. अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानाव
स्थानस्वरुपपरिणत्याऽर्थक्रियासामर्थ्यघटनाच्च ३. सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्ध्वतासामान्यं च । ४. प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यम्, शबलशाबलेयादिपिण्डेषु
गोत्वं यथा। ५. पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटककङ्कणाद्यनुगामि
काञ्चनवत् । ६. विशेषोऽपि द्विरूपो गुणः पर्यायश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org