________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
१३. सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति। १४. एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च
विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्यप्रयोगः सप्तभङ्गी । १५. तद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः। १६. स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । १७. स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्प-नया तृतीयः । १८. स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । १९. स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेध
कल्पनया च पञ्चमः । २०. स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेध
कल्पनया च षष्ठः। २१. स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया
युगपद्विधिनिषेधकल्पनया च सप्तम इति । २२. विधिप्रधान एव ध्वनिरिति न साधु । २३. निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः । २४. अप्राधान्येनैव ध्वनिस्तमभिधत्ते, इत्यप्यसारम् । २५. क्वचित् कदाचित् कथञ्चित् प्राधान्येनाप्रतिपन्नस्य तस्याप्राधान्या
नुपपत्तेः । २६. निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् । २७. क्रमादुभयप्रधान एवायमित्यपि न साधीयः । २८. अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् । २९. युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्त्रम् । ३०. तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् । ३१. विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स
इत्येकान्तोऽपि न कान्तः । ३२. निषेधात्मनः सह द्वयात्मनश्चार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य
प्रतीयमानत्वात् । ३३. निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवायमित्य
प्यवधारणं न रमणीयम् । ३४. इतरथापि संवेदनात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org