________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
१००.पूर्वचरानुपलब्धिर्य थानोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं,
चित्रोदयादर्शनात् । १०१. उत्तरचरानुपलब्धिर्यथा-नोदगमत् पूर्वभद्रपदामुहूर्तात्पूर्वमुत्तरभद्र
पदोद्गमानवगमात्। १०२. सहचरानुपलब्धिर्यथा-नास्त्यस्य सम्यग्ज्ञानं, सम्यग्दर्शनानुपलब्धेः । १०३. विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा । १०४. विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् ।। १०५. विरुद्धकार्यानुपलब्धि-र्यथा अत्र शरीरिणि रोगातिशयः समस्ति,
नीरोगव्यापारानुपलब्धेः। १०६. विरुद्धकारणानुपलब्धिर्यथा-विद्यतेऽत्र प्राणिनि कष्टम्, इष्टसंयोगाऽ
भावात्। १०७. विरुद्धस्वभावानुपलब्धिर्यथा-वस्तुजातमनेकान्तात्मकम्, एकान्त
स्वभावानुपलम्भात् । १०८.विरुद्धव्यापकानुपलब्धिर्यथा-अस्त्यत्र छाया, औष्ण्यानुपलब्धेः । १०९.विरुद्धसहचरानुपलब्धिर्यथा-अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनानुपलब्धेः।
(चतुर्थः परिच्छेदः) १. आप्तवचनादाविर्भूतमर्थसंवेदनमागमः। २. उपाचारादाप्तवचनं च ।। ३. समस्त्यत्र प्रदेशे रत्ननिधानम्, सन्ति रत्नसानुप्रभूतयः । ४. अभिधेयं वस्तु यथावस्थितं यो जानीते, यथाज्ञानं चाभिधत्ते, स आप्तः । ५. तस्य हि वचनमविसंवादि भवति । ६. स च द्वेधा, लौकिको लोकोत्तरश्च । ७. लौकिको जनकादिौकोत्तरस्तु तीर्थङ्करादिः । ८. वर्णपदवाक्यात्मकं वचनम् । ९. अकारादिः पौगलिको वर्णः । १०. वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् । ११. स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः । १२. अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद् यथार्थायथार्थत्वे पुनः
परुषगणदा Jain Education numato la
सरत.
For Personal &PrivateUse Only
www.jainelibrary.org