SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विभाग - १, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक ८०. उदेष्यति मुहूर्तान्ते तिष्यतारकाः, पुनर्वसूदयदर्शनादिति पूर्वचरस्य । ८१. उदगुर्मुहूर्त्तात्पूर्वं पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य । ८२. अस्तीह सहकारफले रूपविशेषः, समास्वाद्यमानरसविशेषादिति ८ सहचरस्य । ८३. विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा । ८४. तत्राद्या स्वभावविरुद्धोपलब्धिः । ८५. यथा नास्त्येव सर्वथैकान्तो ऽनेकान्तस्योपलम्भात् । ८६. प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् । ८७. विरुद्धव्याप्तोपलब्धिर्यथा नास्ति अस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् । ८८. विरुद्धकार्योपलब्धिर्यथा- न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेः । ८९. विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्ति, रागद्वेषकालुष्याऽकलङ्कित्तज्ञानसंपन्नत्वात् । ९०. विरुद्धपूर्व चरोपलब्धिर्यथा-नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा, रोहिण्युद्गमात् । ९१. विरुद्धोत्तरचरोपलब्धिर्यथा-नोदगान्मुहूर्तात्पूर्वं मृगशिरः, पूर्वफल्गुन्यु दयात् । ९२. विरुद्धसहचरोपलब्धिर्यथा-नास्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनात् । ९३. अनुपलब्धेरपि द्वैरुप्यम्, अविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्च । ९४. तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा । ९५. प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वचरोत्तरचर सहचराणामनुपलब्धिः । ९६. स्वभावानुपलब्धिर्यथानास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् । ९७. व्यापकानुपलब्धिर्यथानास्त्यत्र प्रदेशे पनशः पादपानुपलब्धेः । ९८. कार्यानुपलब्धिर्यथानास्त्यत्राप्रतिहतशक्तिकं बीजमङ्करानवलोकनात् । ९९. कारणानुपलब्धिर्यथा- न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थ श्रद्धा नाभावात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy