SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम, प्रमाणनयतत्त्वालोक ६१. यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः, सोऽस्य प्रध्वंसाभावः । ६२. यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपाल कदम्बकम् । ६३. स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः । ६४. यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः। ६५. कालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः । ६६. यथा चेतनाचेतनयोः।। ६७. उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च । ६८. तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा । ६९. साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुप लब्धिः । ७०. तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्र्यनुमित्या रूपाद्यनु मितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रति स्खलनमपरकारणसाकल्यं च । ७१. पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ, तयोः कालव्यवहिता वनुपलम्भात् । ७२. न चातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं, व्यवहितत्वेन निर्व्यापारत्वात् । ७३. स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था, कुलालस्येव कलशं प्रति । ७४. न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः । ७५. परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् । ७६. सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन, तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः।। ७७. ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् यः प्रयत्नानन्तरीयकः, स परिणतिमान्, यथा स्तम्भः । यो वा न परिणतिमान्, स न प्रयत्नानन्तरीयकः यथा वान्ध्येयः । प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् परिणति मानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्येण वैधर्येण च । ७८. अस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमसमुपलम्भादिति कार्यस्य । ७९. भविष्यति वर्षं तथाविधवारिवाहविलोकनादिति कारणस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy