________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
३७. अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिर्व्याप्तेरुद्भावनं
व्यर्थम्। ३८. पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु
बहिर्व्याप्तिः। ३९. यथाऽनेकान्तात्मकं वस्तु, सत्त्वस्य तथैवोपपत्तेरिति, अग्निमानयं देशः
धूमवत्त्वात्, य एवं स एवं, यथा पाकस्थानमिति च । ४०. नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य पक्षहेतुप्रयोगादेव तस्याः
सद्भावात् । ४१. समर्थनमेव परं प्रतिपत्त्यङ्गमास्तां, तदन्तरेण दृष्टान्तादिप्रयोगेऽपि
तदसम्भवात् । ४२. मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । ४३. प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः । ४४. स द्वेधा साधर्म्यतो वैधयंतश्च । ४५. यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते, स साधर्म्य
दृष्टान्तः। ४६. यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसम् । ४७. यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्श्यते स वैधर्म्यदृष्टान्तः । ४८. यथा-अग्न्यभावे न भवत्येव धूमः, यथा जलाशये । ४९. हेतोः साध्यधर्मिण्युपसंहरणमुपनयः । ५०. यथा धूमश्चात्र प्रदेशे। ५१. साध्यधर्मस्य पुनर्निगमनम्। ५२. यथा-तस्मादग्निरत्र। ५३. एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते । ५४. उक्तलक्षणो हेतुर्द्विप्रकारः, उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् । ५५. उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च । ५६. विधिः सदंशः। ५७. प्रतिषेधोऽसदंशः। ५८. स चतुर्धा-प्रागभावः, प्रध्वंसाभाव, इतरेतराभावोऽत्यन्ताभावश्च । ५९. यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः । ६०. यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ।
Jain Education International
FoNersonal & Private Use Only
www.jainelibrary.org