________________
विभाग- २, उत्पादादिसिद्धिः
विद्युदाद्यपि नात्यन्तं, नाशित्वेन प्रकाशते । अन्धकाराद्युपादान-भावेनास्यैव सम्भवात् ॥१३॥ न चैवं तस्य रूपस्य, नाशे पूर्वसमुद्भवः । तदन्यस्यापि तन्नाशस्वभावस्य प्रसूतितः ॥१४॥
कर्मतत्फलसम्बन्ध-बन्धमोक्षाद्यसङ्गतिः । स्फुटैव सर्वथोच्छेदे, सन्तानः स्वः परो न वा ? ॥१५॥ इन्द्रियाधीनजन्मेय-मभेदग्राहिणी मतिः । प्रामाण्यं बाधवैकल्या- दश्नुते भेदबुद्धिवत् ॥१६॥ यदभेदस्य भेदेन, भवनं सोऽयमन्वय: । एकान्तेन न नित्यत्वं, प्रमाणानुपपत्तितः ॥१७॥ भावा ज्ञेयस्वभावश्चेन्नित्यं तज्ज्ञानसम्भवः । त( अ ) थाज्ञेयस्वभावास्ते, कदा तज्ज्ञानसम्भवः ? ॥ १८ ॥ सहकारिव्यपेक्षाऽपि नित्यैकान्ते न युज्यते । नाधेयं नापनेयं वा रूपं तैस्तस्य किञ्चन ॥ १९ ॥ वस्तुतोऽचिन्त्यशक्तित्वादे ( त्वमेव चेदिष्यते परैः । द्रव्यरूपस्य पर्यायै-रैक्यं दृष्टं न किं मतम् ? ॥२०॥ न हि द्रव्यातिरेकेण, पर्यायाः सन्ति केचन । द्रव्यमेव ततः सत्यं, भ्रान्तिरन्या तु चित्रवत् ॥२१॥ पर्यायव्यतिरेकेण, द्रव्यं नास्तीह किञ्चन । भेद एव ततः सत्यो, भ्रान्तिस्तद्ध्रौव्यकल्पना ॥२२॥ नाभेदमेव पश्यामो, भेदं नापि च केवलम् । जात्यन्तरं तु पश्याम- स्तेनानेकान्तसाधनम् ॥२३॥ सुखदुःखादिसम्बन्धो, युज्यते कथमन्यथा ? । व्यर्थः श्रमस्ततोऽन्येषां दुस्तर्काकुलचेतसाम् ॥२४॥ ननूत्पादादयो धर्मा, भिन्नाः स्युर्धर्मिणो यदा । नीरूपत्वं तदा तस्य, वाच्यं वा लक्षणान्तरम् ॥ २५ ॥
अभेदे युक्तता न स्यात्, अस्याभेदव्यपेक्षणात् । सम्बन्धशब्दो नायं यद्, न द्वयेन विना स तु ॥२६॥
For Personal & Private Use Only
Jain Education International
४२१
www.jainelibrary.org