SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२० विभाग-२, उत्पादादिसिद्धिः चान्द्रकुलनभोमणिप्रद्युम्नसूरिशिष्यचन्द्रसेनसूरिविरचिता (१९)॥ उत्पादादिसिद्धिः॥ यस्योत्पादव्ययध्रौव्य-युक्तवस्तूपदेशतः । सिद्धमाप्तस्वभावत्वं, तस्मै सर्वविदे नमः ॥१॥ यदुत्पादव्ययध्रौव्य-योगितां न बिभर्ति वै । तादृशं शशशृङ्गादि-रूपमेव परं यदि ॥२॥ न यत्सत्ताभिसम्बन्धान्न शक्तेर्नोपलब्धितः । विनोत्पादव्ययध्रौव्यै-र्वस्तुत्वमुपपद्यते ॥३॥ उत्पादो वस्तुनो भावो, नाशस्तस्य व्ययो मतः । ध्रौव्यमन्वितरूपत्व-मेकं नान्योन्यवर्जितम् ॥४॥ अविनाभावि यद्येन, न तत्तेन विरुध्यते । वृक्षत्वेनेव चूतत्व-मिहाप्येवं व्यवस्थितिः ॥५॥ नाशतः सर्वथा भावो, न नाशः सर्वथा सतः । नान्वयोऽपि विनैताभ्यां, प्रमाणे प्रतिभासते ॥६॥ उत्पादो यदि दृष्टत्वा-दिष्टः प्रामाणिकैः परैः। तद्रूपपरिणामोऽयं, तदेष्टव्यस्ततो न किम् ॥७॥ यदसत्तन्न केनापि, क्रियते वियदब्जवत् । उपादानं न चेह स्यात्, सर्वं सर्वत्र वा भवेत् ॥८॥ कार्यकारणभावादि-व्यवस्थाप्यत्र दुर्घटा। शक्तीनां नियमोऽप्येष, स्यात्सत्त्वेन विना कथम् ॥९॥ भिन्नो भावादभिन्नो वा, नाशः किं वा स एव न ?। भेदे वस्तूपलभ्येत, तादवस्थ्यप्रसङ्गतः ॥१०॥ अभेदे भाव एवाय-मभावः केवलोऽथवा । ततः सहावभासेत, भावो यद्वा कदाऽपि न ॥११॥ अभावेऽपि च नाशस्य, वक्तुमेतदसाम्प्रतम् । न तस्य किञ्चिद्भवति, न भवत्येव केवलम् ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy