________________
विभाग-२, अन्ययोगव्यवच्छेदद्वात्रिंशिका
४१९
नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं, परैविलुप्तं जगदप्यशेषम् ॥२७॥ सदेव सत् स्यात्सदिति त्रिधाऽर्थो, मीयेत दुर्नीतिनय-प्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमाऽऽस्थः ॥२८॥ मुक्तोऽपि वाऽभ्येतु भवं भवो वा, भवस्थशून्योऽस्तु मितात्मवादे । षड्जीवकायं त्वमनन्तसङ्ख्ययमाख्यस्तथा नाथ ! यथा न दोषः ॥२९॥ अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥३०॥ वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्यं । लङ्घम जङ्घालतया समुद्रं, वहेम चन्द्रद्युतिपानतृष्णाम् ॥३१॥ इदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे, जगन्मायाकारैरिव हतपरैर्हा ! विनिहितम् तदुद्धर्तुं शक्तो नियतमविसंवादिवचन स्त्वमेवातस्त्रातस्त्वयि कृतसर्पयाः कृतधियः ॥३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org