________________
४१८
विभाग- २, अन्ययोगव्यवच्छेदद्वात्रिंशिका
माया सती चेद् द्वयतत्त्वसिद्धिरथासती हन्त ! कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत्कि, माता च वन्ध्या च भवत्परेषाम् ? अनेकमेकात्मकमेव वाच्यं, द्वयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथावाचकवांच्यक्लृप्तावतावकानां प्रतिभाप्रमादः ॥ १४ ॥ चिदर्थशून्या च जडा च बुद्धिः, शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति, कियज्जडैर्न ग्रथितं विरोधि ॥१५॥ न तुल्यकालः फलहेतुभावो, हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्, विलूनशीर्णं सुगतेन्द्रजालम् ॥१६॥ विना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाणमहो ! सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥
कृतप्रणाशाऽकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो ! महासाहसिकः परस्ते ॥ १८ ॥ सा वासना सा क्षणसन्ततिश्च नाभेदभेदाऽनुभयैर्घटेते । ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥ विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क्व चेष्टा, क्व दृष्टमात्रं च हहा ! प्रमादः ॥२०॥ प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः ।
जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा ॥२१॥ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः ॥२२॥ अपर्ययं वस्तु नमस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ उपाधिभेदोपहितं विरुद्धं, नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता, जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ स्यान्नाशि नित्यं सदृशं विरूपं, वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ॥२५॥ य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समस्त एव । परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन ! शासनं ते ॥ २६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org