________________
४२२
विभाग-२, उत्पादादिसिद्धिः
किं चोत्पादादियोगित्व-मुत्पादादेर्यदेष्यते । अनवस्था तदा मृग्यं, तेनान्यद्वस्तुलक्षणम् ॥२७॥ सत्त्वं हि वस्तुनो रूपं, सदिति प्रत्ययो यतः । सत्त्वरूपवियोगेन, नोत्पादादेरपि स्थितिः ॥२८॥ यदुत्पादव्ययध्रौव्य-युक्तं तेभ्यः परं न तत् । किन्त्वभेदांशमाश्रित्य, तेषामेव तथा स्थितिः ॥२९॥ भिन्नशब्दप्रवृत्तिश्च, भेदांशस्यापि सम्भवात् । निरपेक्षौ न चान्योऽन्यं, भेदाभेदाविमौ क्वचित् ॥३०॥ वस्तुनस्तन्न नैरूप्यं, न चान्यदपि दूषणम् । सदिति प्रत्ययोऽप्येष, तत एवोपजायते ॥३१॥ बोधरूपादयोऽप्येतत्-त्रैरूप्याभेदवर्तिनः । कथञ्चित्तेन जैनेन्द्रं, सुदृशं वस्तुलक्षणम् ॥३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org