________________
४१४
विभाग-२, अयोगव्यवच्छेदद्वात्रिंशिका
पू.आ.श्रीहेमचन्द्रसूरिविरचिता (१७)॥अयोगव्यवच्छेदद्वात्रिंशिका ॥ अगम्यमध्यात्मविदामवाच्यं, वचस्विनामक्षवतां परोक्षम् । श्रीवर्द्धमानाभिधमात्मरूपमहंस्तुतेर्गोचरमानयामि ॥१॥ स्तुतावशक्तिस्तव योगिनां न किं, गुणानुरागस्तु ममापि निश्चलः । इदं विनिश्चित्य तव स्तवं वदन्, न बालिशोऽप्येष जनोऽपराध्यति ॥२॥ क्व सिद्धसेनस्तुतयो महार्था ?, अशिक्षिताऽऽलापकला क्व चैषा ? तथापि यूथाधिपतेः पथिस्थः, स्खलद्गतिस्तस्य शिशुर्न शोच्यः ॥३॥ जिनेन्द्र ! यानेव विबाधसे स्म, दुरन्तदोषान् विविधैरुपायैः । त एव चित्रं त्वदसूययेव, कृताः कृतार्थाः परतीर्थनाथैः ॥४॥ यथास्थितं वस्तु दिशन्नधीश!, न तादृशं कौशलमाश्रितोऽसि। तुरङ्गश्रृङ्गाण्युपपादयट्यो, नमः परेभ्यो नवपण्डितेभ्यः ॥५॥ जगत्यनुध्यानबलेन शश्वत्, कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः, स्वमांसदानेन वृथा कृपालुः ॥६॥ स्वयं कुमार्गग्लपिता नु नाम, प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययाऽन्धा अवमन्वते च ॥७॥ प्रादेशिकेभ्यः परशासनेभ्यः, पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिऽम्बरेभ्यो, विडम्बनेयं हरिमण्डलस्य ॥८॥ शरण्य ! पुण्ये तव शासनेऽपि, संदेग्धि यो विप्रतिपद्यते वा । स्वादौ स तथ्ये स्वहिते च पथ्ये, संदेग्धि वा विप्रतिपद्यते वा ॥९॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः। नृशंसदुर्बुद्धिपरिग्रहाच्च, ब्रूमस्त्वदन्यागममप्रमाणम् ॥१०॥ हितोपदेशात् सकलज्ञक्लृप्तेर्मुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेष्वविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् ॥११॥ क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवाङ्ग्रिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते ? ॥१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org