________________
विभाग-२, अयोगव्यवच्छेदद्वात्रिंशिका
४१५
तद्दुःषमाकालखलायितं वा, पचेलिमं कर्म भवानुकूलम् । उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥१३॥ परःसहस्त्राः शरदस्तपांसि, युगान्तरं योगमुपासतां वा। तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥१४॥ अनाप्तजाड्यादिविनिर्मितित्व-सम्भावनासम्भविविप्रलम्भाः। परोपदेशाः परमाप्तक्लृप्त-पथोपदेशे किमु संरभन्ते ? ॥१५॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो ! अधृष्या तव शासनश्रीः ॥१६॥ देहाद्ययोगेन सदाशिवत्वं, शरीरयोगादुपदेशकर्म। परस्परस्पर्धि कथं घटेत, परोपक्लृप्तेष्वधिदैवतेषु ॥१७॥ प्रागेव देवान्तरसंश्रितानि, रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश !, समाधिमाध्यस्थ्ययुगाश्रितोऽसि ॥१८॥ जगन्ति भिन्दन्तु सृजन्तु वा पुनर्यथा तथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवन् ! भवक्षयक्षमोपदेशे तु परं तपस्विनः ॥१९॥ वपुश्च पर्यङ्कशयं श्लथं च, दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैजिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ॥२०॥ यदीयसम्यक्त्वबलात् प्रतीमो, भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥२१॥ अपक्षपातेन परीक्षमाणा, द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥२२॥ अनाद्यविद्योपनिषन्निषण्णैर्विश्रृङ्खलैश्चापलमाचरद्भिः। अमूढलक्ष्योऽपि पराक्रिये यत्, त्वत्किङ्करः किं करवाणि देव ! ॥२३॥ विमुक्तवैरव्यसनानुबन्धाः, श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ !, तां देशनाभूमिमुपाश्रयेऽहम् ॥२४॥ मदेन मानेन मनोभवेन, क्रोधेन लोभेन च सम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥२५॥ स्वकण्ठपीठे कठिनं कुठारं, परे किरन्तः प्रलपन्तु किञ्चित् । मनीषिणां तु त्वयि वीतराग !, न रागमात्रेण मनोऽनुरक्तम् ॥२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org