________________
विभाग- २, युक्त्यनुशासनम्
नाना-सदेकात्म-समाश्रयं चेद् अन्यत्वमद्विष्ठमनात्मनोः क्व । विकल्प- शून्यत्वमवस्तुनश्चेत् तस्मिन्नमेये वखलु प्रमाणम् ॥५५॥ व्यावृत्ति - हीनाऽन्वयतो न सिद्धयेद् विपर्ययेऽप्यद्वित्तयेऽपि साध्यम् । अतद्व्युदासाभिनिवेश- वादः पराऽभ्युपेताऽर्थ - विरोध - वादः ॥ ५६॥ अनात्मनाऽनात्मगतेरयुक्तिर्वस्तुन्ययुक्तेर्यदि पक्ष -सिद्धिः । अवस्त्वयुक्तेः प्रतिपक्ष-सिद्धिः न च स्वयं साधन-रिक्त-सिद्धिः ॥५७॥ निशायितस्तैः परशुः परघ्नः स्वमूर्ध्नि निर्भेद-भयाऽनभिज्ञैः । वैतण्डिकैर्यैः कुसृतिः प्रणीता मुने ! भवच्छासन- दृक्-प्रमूढैः ॥५८॥ भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदर्हतस्ते । प्रमीयते च व्यपदिश्यते च वस्तु-व्यवस्थाऽङ्गममेयमन्यत् ॥५९॥ विशेष - सामान्य - विषक्त-भेदविधि-व्यवच्छेद-विधायि-व - वाक्यम् । अभेद - बुद्धेरविशिष्टता स्याद् व्यावृत्तिबुद्धेश्च विशिष्टता ते ॥ ६० ॥ सर्वान्तवत्तद्गुण-मुख्य- कल्पं सर्वान्तशून्यं च मिथोऽनपेक्षम् । सर्वाऽऽपदामन्तकरं निरन्तं सर्वोदयं तीर्थमिदं तवैव ॥ ६१ ॥
कामं द्विषन्नप्युपपत्तिचक्षुः समीक्ष्यतां ते समदृष्टिरिष्टम् । त्वयि ध्रुवं खण्डित - मान-शृङ्गो भवत्यभद्रोऽपि समन्तभद्रः ॥ ६२ ॥ न रागान्नः स्तोत्रं भवति भव-पाश-च्छिदि मुनौ न चाऽन्येषु द्वेषादगुण-कथाऽभ्यास-खलता । किमु न्यायाऽन्याय - प्रकृत- गुणदोषज्ञ - मनसां हिताऽन्वेषोपायस्तव गुण - कथा - सङ्ग-गदितः ॥६३॥ इति स्तुत्यः स्तुत्यैस्त्रिदश - मुनि-मुख्यैः प्रणिहितैः स्तुतः शक्त्या श्रेयः पदमधिगतस्त्वं जिन ! मया । महावीरो वीरो दुरित - पर- सेनाऽभिविजये विधेया मे भक्ति पथि भवत एवाऽप्रतिनिधौ ॥६४॥
Jain Education International
For Personal & Private Use Only
४१३
www.jainelibrary.org