________________
४१२
विभाग-२, युक्त्यनुशासनम्
यदेवकारोपहितं पदं तद् अस्वार्थतः स्वार्थमवच्छिनत्ति । पर्याय-सामान्य-विशेष-सर्वं पदार्थहानिश्च विरोधिवत्स्यात् ॥४१॥ अनुक्त-तुल्यं यदनेवकारं व्यावृत्यभावान्नियम-द्वयेऽपि । पर्याय-भावेऽन्यतरप्रयोगस्तत्सर्वमन्यच्च्युतमात्म-हीनम् ॥४२॥ विरोधि चाऽभेद्यविशेष-भावात्तद्द्योतनः स्याद्गुणतो निपातः विपाद्य-सन्धिश्च तथाऽङ्गभावादवाच्यता श्रेयस-लोप-हेतुः ॥४३॥ तथा प्रतिज्ञाऽऽशयतोऽप्रयोगः सामर्थ्यतो वा प्रतिषेधयुक्तिः। . इति त्वदीया जिननाग ! दृष्टिः पराऽप्रधृष्या परधर्षिणी च ॥४४॥ विधिनिषेधोऽनभिलाप्यता च त्रिरेकशस्त्रिर्दिश एक एव । त्रयो विकल्पास्तव सप्तधाऽमी स्याच्छब्द-नेयाः सकलेऽर्थभेदे ॥४५॥ स्यादित्यपि स्याद्गुण-मुख्य-कल्पैकान्तो यथोपाधि-विशेष-वीक्ष्यः। तत्वं त्वनेकान्तमशेषरूपं द्विधा भावार्थ-व्यवहारवत्त्वात् ॥४६॥ . न द्रव्य-पर्याय-पृथग-व्यवस्था द्वैयात्म्यमेकाऽर्पणया विरुद्धम् । धर्मी च धर्मश्च मिथस्त्रिधेमौ न सर्वथा तेऽभिमतौ विरुद्धौ ॥४७॥ दृष्टाऽऽगमाभ्यामविरुद्धमर्थप्ररूपणं युक्त्यनुशासनं ते । प्रतिक्षणं स्थित्युदय-व्ययात्मतत्त्व-व्यवस्थं सदिहाऽर्थरूपम् ॥४८॥ नानात्मतामप्रजहत्तदेकमेकात्मतामप्रजहच्च नाना। अङ्गाङ्गि-भावात्तव वस्तु तद्यत् क्रमेण वाग्वाच्यमनन्तरूपम् ॥४९॥ मिथोऽनपेक्षाः पुरुषार्थ-हेतु शा न चांशी पृथगस्ति तेभ्यः । परस्परेक्षाः पुरुषार्थ-हेतुर्दृष्टा नयास्तद्वदसि-क्रियायाम् ॥५०॥ एकान्त-धर्माऽभिनिवेश-मूला रागादयोऽहंकृतिजा जनानाम् । एकान्त-हानाच्च स यत्तदेव स्वाभाविकत्वाच्च समं मनस्ते ॥५१॥ प्रमुच्यते च प्रतिपक्ष-दूषी जिन ! त्वदीयैः पटुसिंहनादैः।। एकस्य नानात्मतया ज्ञ-वृत्तेस्तौ बन्ध-मोक्षौ स्वमतादबाह्यौ ॥५२॥ आत्मान्तराऽभाव-समानता न वागास्पदं स्वाऽऽश्रय-भेद-हीना । भावस्य सामान्य-विशेषवत्त्वादैक्ये तयोरन्यतरन्निरात्म ॥५३॥ अमेयमश्लिष्टममेयमेव भेदेऽपि तवृत्त्यपवृत्तिभावात् । वृत्तिश्च कृत्स्नांश-विकल्पतो न मानं च नाऽनन्त-समाश्रयस्य ॥५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org