________________
विभाग- २, युक्त्यनुशासनम्
अतत्स्वभावेऽप्यनयोरुपायाद् गतिर्भवेत्तौ वचनीय - गम्यौ । सम्बन्धिनौ चेन्न विरोधि दृष्टं वाच्यं यथार्थं न च दूषणं तत् ॥२७॥ उपेय-तत्त्वाऽनभिलाप्यता- वद् उपाय-तत्त्वाऽनभिलाप्यता स्यात् । अशेष-तत्त्वाऽनभिलाप्यतायां द्विषां भवद्युक्त्यभिलाप्यतायाः ॥२८॥ अवाच्यमित्यत्र च वाच्यभावा- दवाच्यमेवेत्ययथाप्रतिज्ञम् । स्वरूपतश्चेत्पररूपवाचि स्वरूपवाचीति वचो विरुद्धम् ॥ २९ ॥ सत्याऽनृतं वाऽप्यनृताऽनृतं वाऽप्यस्तीह किं वस्त्वतिशायनेन । युक्तं प्रतिबन्द्यनुबन्धि-मिश्रं न वस्तु तादृक् त्वदृते जिनेदृक् ॥३०॥ सह-क्रमाद्वा विषयाऽल्प-भूरि-भेदेऽनृतं भेदि न चाऽऽत्मभेदात् । आत्मान्तरं स्याद्भिदुरं समं च स्याच्चाऽनृतात्माऽनभिलाप्यता च ॥३१॥ न सच्च नाऽसच्च न दृष्टमेक-मात्मान्तरं सर्व- निषेध - गम्यम् । दृष्टं विमिश्रं तदुपाधिभेदात् स्वप्नेऽपि नैतत्त्वदृषेः परेषाम् ॥३२॥
४११
प्रत्यक्ष-निर्देशवदप्यसिद्ध-मकल्पकं ज्ञापयितुं शक्यम् । विना च सिद्धेर्न च लक्षणार्थो न तावक-द्वेषिणि वीर ! सत्यम् ॥३३॥ कालान्तरस्थे क्षणिके ध्रुवे वाऽपृथक्त्वाऽवचनीयतायाम् । विकारहानेर्न च कर्तृकार्ये वृथा श्रमोऽयं जिन ! विद्विषां ते ॥ ३४ ॥ मद्याङ्गवद्भूत-समागमे ज्ञः शक्त्यन्तर- व्यक्तिरदैव-सृष्टिः । इत्यात्म- शिश्नोदर - पुष्टि-तुष्टैर्निहीभयैर्हा ! मृदवः प्रलब्धाः ॥३५॥ दृष्टेऽविशिष्टे जननादि - हेतौ विशिष्टता का प्रतिसत्त्वमेषाम् । स्वभावतः किं न परस्य सिद्धिरतावकानामपि हा ! प्रपातः ॥३६॥ स्वच्छन्दवृत्तेर्जगतः स्वभावादुच्चैरनाचार-पथेष्वदोषम् । निर्घुष्य दीक्षासममुक्तिमानास्त्वद्दृष्टि- बाह्या बत ! विभ्रमन्ते ॥ ३७ ॥ प्रवृत्ति-रक्तैः शम-तुष्टि - रिक्तैरुपेत्य हिंसाऽभ्युदयाङ्गनिष्ठा । प्रवृत्तित: शान्तिरपि प्ररुढं तमः परेषां तव सुप्रभातम् ॥३८॥ शीर्षोपहारादिभिरात्मदुःखैर्देवान् किलाऽऽराध्य सुखाभिगृद्धाः । सिद्ध्यन्ति दोषाऽपचयाऽनपेक्षा युक्तं च तेषां त्वमृषिर्न येषाम् ॥३९॥ सामान्य-निष्ठा विविधा विशेषाः पदं विशेषान्तर - पक्षपाति । अन्तर्विशेषान्त - वृत्तितोऽन्यत् समानभावं नयते विशेषम् ॥४०॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org