________________
विभाग- २,
नैवाऽस्ति हेतुः क्षणिकात्मवादे न सन्नसन्वा विभवादकस्मात् । नाशोदयैकक्षणता च दृष्टा सन्तान - भिन्न-क्षणयोरभावात् ॥१३॥ कृत-प्रणाशाऽकृत-कर्मभोगौ स्यातामसञ्चेतित-कर्म च स्यात् । आकस्मिकेऽर्थे प्रलय-स्वभावे मार्गो न युक्तो वधकश्च न स्यात् ॥१४॥ न बन्धमोक्षौ क्षणिकैक - संस्थौ न संवृतिः साऽपि मृषा - स्वभावा । मुख्यादृते गौण-विधिर्न दृष्टो विभ्रान्त - दृष्टिस्तव दृष्टितोऽन्या ॥१५॥ प्रतिक्षणं भङ्गिषु तत्पृथक्त्वान्नमातृ - घाती स्व- पतिः स्व-जाया । दत्त - ग्रहो नाऽधिगत-स्मृतिर्न न क्त्वार्थ- सत्यं न कुलं न जातिः ॥१६॥ न शास्तृ-शिष्यादि-विधि-व्यवस्था विकल्पबुद्धिर्वितथाऽखिला चेत् । अतत्त्व-तत्त्वादि-विकल्प - मोहे निमज्जतां वीत-विकल्प-धीः का ? ॥१७॥ अनर्थिका साधन-साध्य - धीश्चेद् विज्ञानमात्रस्य न हेतु - सिद्धिः । अथाऽर्थवत्त्वं व्यभिचार-दोषो न योगिगम्यं परवादिसिद्धम् ॥१८॥ तत्त्वं विशुद्धं सकलैर्विकल्पैर्विश्वाऽभिलापाऽऽस्पदतामतीतम् । न स्वस्य वेद्यं न च तन्निगद्यं सुषुप्त्यवस्थं भवदुक्तिबाह्यम् ॥१९॥ मूकात्म-संवेद्यवदात्म-वेद्यं तन्म्लिष्ट - भाषा - प्रतिम- प्रलापम् । अनङ्ग-संज्ञं तदवेद्यमन्यैः स्यात् त्वद्विषां वाच्यमवाच्य-तत्त्वम् ॥२०॥ अशासदञ्जांसि वचांसि शास्ता शिष्याश्च शिष्टा वचनैर्न ते तै: । अहो इदं दुर्गतमं तमोऽन्यत् त्वया विना श्रायसमार्य ! किं तत् ॥२१॥ प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्ग-गम्यं न तदर्थ-लिङ्गम् । वाचो न वा तद्विषयेण योगः का तद्गतिः ? कष्टमशृण्वतां ते ॥२२॥ रागाद्यविद्याऽनल-दीपनं च विमोक्ष-विद्याऽमृत - शासनं च । न भिद्यते संवृति-वादि-वाक्यं भवत्प्रतीपं परमार्थ - शून्यम् ॥२३॥ विद्या-प्रसूत्यै किल शील्यमाना भवत्यविद्या गुरुणोपदिष्टा । अहो त्वदीयोक्त्यनभिज्ञ-मोहो यज्जन्मने यत्तदजन्मने तत् ॥२४॥ अभावमात्रं परमार्थवृत्तेः सा संवृति: सर्व- विशेष - शून्या । तस्या विशेषौ किल बन्ध-मोक्षौ हेत्वात्मनेति त्वदनाथवाक्यम् ॥२५॥ व्यतीत- सामान्य- विशेष - भावाद् विश्वाऽभिलापाऽर्थ - विकल्प - शून्यम् । ख-पुष्पवत्स्यादसदेव तत्त्वं प्रबुद्ध-तत्त्वाद्भवतः परेषाम् ॥२६॥
For Personal & Private Use Only
Jain Education International
४१०
युक्त्यनुशासनम्
www.jainelibrary.org