________________
विभाग-२, न्यायावतारसूत्रवार्तिकम्
४०७
परोपदेशजं श्रौतं मतिं शेषं जगुर्जिनाः। परोक्षं प्रत्यभिज्ञादि त्रिधा श्रौतं न युक्तिमत् ॥३९॥ अन्यथेहादिकं सर्वं श्रौतमेवं प्रसज्यते । यच्चोक्तं नागमापेक्षं मानं तज्जाड्यजृम्भितम् ॥४०॥ लिङ्गाल्लिङ्गिनि यज् ज्ञानमनुमानं तदेकधा । प्रत्येति हि यथा वादी प्रतिवाद्यपि तत् तथा ॥४१॥ उपचारेण चेत् तत् स्यादनवस्था प्रसज्यते । अन्यस्यासाधनादाह लक्षणे हेतु-साध्ययोः ॥४२॥ अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥४३॥ कार्यकारणसद्भावस्तादात्म्यं चेत् प्रतीयते । प्रत्यक्षपूर्वकात् तर्कात् कथं नानुपपन्नता ॥४४॥ व्यतिरेकाऽनुपपत्तिश्चेदन्वयनिबन्धनम् । कथं सत्त्वं विना तेन क्षणिकत्वप्रसाधकम् ॥४५॥ विनाप्यन्वयमात्मादौ प्राणादिः साधनं यदा । तदा स्यान्नान्वयापेक्षा हेतोः साध्यस्य साधने ॥४६॥ संबन्धिभ्यां विभिन्नश्चेत् संबन्धः स्यान्न लोष्टवत् । अनवस्था प्रसज्येत तदन्यपरिकल्पने ॥४७॥ कृत्तिकोदयपूरादेः कालादिपरिकल्पनात् । यदि स्यात् पक्षधर्मत्वं चाक्षुषत्वं न किं ध्वनौ ॥४८॥ समानपरिणामस्य द्वयस्य नियमग्रहे। नाशक्तिर्न च वैफल्यं साधनस्य प्रसज्यते ॥४९॥ इष्टं साधयितुं शक्यं वादिना साध्यमन्यथा। साध्याभासमशक्यत्वात् साधनागोचरत्वतः ॥५०॥ यथा सर्वगमध्यक्षं बहिरन्तरनात्मकम् । नित्यमेकान्ततः सत्त्वात् धर्मः प्रेत्यासुखप्रदः ॥५१॥ रूपाद्यसिद्धितोऽसिद्धो विरुद्धोऽनुपपत्तिमान् । साध्याभावं विना हेतुः व्यभिचारी विपक्षगः ॥५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org