________________
४०८
विभाग-२, न्यायावतारसूत्रवार्तिकम्
असिद्धः सिद्धसेनस्य विरुद्धो मल्लवादिनः । द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने ॥५३॥
४. आगमपरिच्छेदः। ताप-च्छेद-कषैः शुद्धं वचनं त्वागमं विदुः । तापो ह्याप्तप्रणीतत्वमाप्तो रागादिसंक्षयात् ॥५४॥ कषः पूर्वापराघातश्छेदो मानसमन्वयः ॥५५॥ विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥५६॥ सूत्रं सूत्रकृता कृतं मुकुलितं सद्भरिबीजैर्घनम्, तद्वाचः किल वार्तिकं मृदु मया प्रोक्तं शिशूनां कृते । भानोर्यकिरणैर्विकासि कमलं नेन्दोः करैस्तत् तथा, यद्वेन्दूदयतो विकासि जलजं भानोर्न तस्मिन् गतिः ॥५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org