________________
४०६
विभाग- २, न्यायावतारसूत्रवार्तिकम्
पर्ययस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा । सदृश: परिणामो यः तत् सामान्यं द्विधा स्थितम् ॥२६॥ विपरीतो विशेषश्च तान्युगपद् व्यवस्यति । तेन तत्कल्पनाज्ञानं न तु शब्दार्थयोजनात् ॥२७॥ निरंशपरमाणूनामभासे स्थौल्यवेदने । प्रत्यक्षं कल्पनायुक्तं प्रत्यक्षेणैव सिध्यति ॥ २८ ॥ नासंयुक्तैर्न संयुक्तैर्निरंशैः क्रियते महत् । अयोगे प्रतिभासोऽपि संयोगेऽप्यणुमात्रकम् ॥२९॥ भिन्नदेशस्वरुपाणामणूनामग्रहे सति । तत्स्थौल्यं यदि कल्पेत नावभासेत किंचन ॥३०॥ नैतदस्ति यतो नास्ति स्थौल्यमेकान्ततस्ततः । भिन्नमस्ति समानं तु रूपमंशेन केनचित् ॥३१॥ अथास्तु युगपद्धासो द्रव्य-पर्याययोः स्फुटम् । तथापि कल्पना नैषा शब्दोल्लेखविवर्जिता ॥३२॥ चकास्ति योजितं यत्र सोपाधिकमनेकधा । वस्तु तत् कल्पनाज्ञानं निरंशाप्रतिभासने ॥३३॥ भेदज्ञानात् प्रतीयन्ते यथा भेदा: परिस्फुटम् । तथैवाभेदविज्ञानादभेदस्य व्यवस्थितिः ॥ ३४॥
घटमौलिसुवर्णेषु बुद्धिर्भेदावभासिनी ।
संविन्निष्ठा हि भावानां स्थितिः काऽत्र विरुद्धता ॥ ३५ ॥
प्रतीतेस्तु फलं नान्यत् प्रमाणं न ततः परम् । अताद्रूप्येऽपि योग्यत्वान्नियतार्थस्य वेदकम् ॥३६॥
३. अनुमानपरिच्छेदः।
पूर्वमेव परोक्षस्य विषयः प्रतिपादितः । प्रमाणफलसद्भावो ज्ञेयः प्रत्यक्षवद् बुधैः ॥३७॥ परोक्षं द्विविधं प्राहुर्लिङ्ग-शब्दसमुद्भवम् । लैङ्गिकात् प्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते ॥ ३८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org