________________
विभाग-२, न्यायावतारसूत्रवार्तिकम्
४०५
२. प्रत्यक्षपरिच्छेदः। दूरासन्नादिभेदेन प्रतिभासं भिनत्ति यत् । तत् प्रत्यक्षं परोक्षं तु ततोऽन्यद् वस्तु कीर्तितम् ॥१३॥ तन्निमित्तं द्विधा मानं न त्रिधा नैकधा ततः । सादृश्यं चेत् प्रमेयं स्यात् वैलक्षण्यं न किं तथा ॥१४॥ अर्थापत्तेर्न मानत्वं नियमेन विना कृतम् । प्रमाणपञ्चकाभावेऽभावोऽभावेन गम्यते ॥१५॥ न, नास्तीति यतो ज्ञानं नाध्यक्षाद्भिनगोचरम् । अभावोऽपि च नैवास्ति प्रमेयो वस्तुनः पृथक् ॥१६॥ प्रत्यक्षं विशदं ज्ञानं विधेन्द्रियमनिन्द्रियम् । योगजं चेति वैशद्यमिदन्त्वेनावभासनम् ॥१७॥ जीवांशात् कर्मनिर्मुक्तादिन्द्रियाण्यधितिष्ठतः। जातमिन्द्रियजं ज्ञानं विनेन्द्रियमनिन्द्रियम् ॥१८॥ स्मृत्यूहादिकमित्येके प्रातिभं च तथाऽपरे । स्वप्नविज्ञानमित्यन्ये स्वसंवेदनमेव नः ॥१९॥ मनःसंज्ञस्य जीवस्य ज्ञानावृतिशमक्षयौ । यतश्चित्रौ ततो ज्ञानयोगपद्यं न दुष्यति ॥२०॥ जिनस्यांशेषु सर्वेषु कर्मणः प्रक्षयेऽक्रमम् । ज्ञानदर्शनमन्येषां न तथेत्यागमावधः ॥२१॥ तत्रेन्द्रियजमध्यक्षमेकांशव्यवसायकम्। वेदनं च परोक्षं च योगजं तु तदन्यथा ॥२२॥ द्रव्यपर्यायसामान्यविशेषास्तस्य गोचराः । अविस्पष्टास्तयेव स्युरनध्यक्षस्य गोचराः ॥२३॥ न जडस्यावभासोऽस्ति भेदाभेदविकल्पनात् । न भिन्नविषयं ज्ञानं शून्यं वा यदि वा ततः ॥२४॥ ज्ञानशून्यवतो नास्ति निरासेऽर्थस्य साधनम् । संवित्सिद्धप्रतिक्षेपे कथं स्यात् तद्व्यवस्थितिः ॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org