SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४०४ विभाग-२, न्यायावतारसूत्रवार्तिकम् श्रीशान्त्याचार्यविरचितम् (१५) ॥ न्यायावतारसूत्रवार्तिकम् ॥ १. सामान्यलक्षणपरिच्छेदः । हिताहितार्थसंप्राप्ति-त्यागयोर्यन्निबन्धनम्। तत् प्रमाणं प्रवक्ष्यामि सिद्धसेनार्कसूत्रितम् ॥१॥ प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥२॥ सन्निकर्षादिकं नैव प्रमाणं तदसंभवात् । अवभासो व्यवसायो न तु ग्रहणमात्रकम् ॥३॥ दीपवन्नोपपद्येत बाह्यवस्तुप्रकाशकम् । अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसज्यते ॥४॥ प्रत्यक्षं च परोक्षं च ग्राहकं नोपपत्तिमत् । बाधनात् संशयाद्यासे सूक्तं सामान्यलक्षणम् ॥५॥ वेदेश्वरादयो नैव प्रमाणं बाधसंभवात् । प्रमाणं बाधवैकल्यादहस्तत्त्वार्थवेदनः ॥६॥ वचसोऽपौरुषेयत्वं नाऽविशेषात् पटादिवत् । स्वरुपेण विशेषेण न सिद्धं भूधरादिषु ॥७॥ विरुद्धं चेष्टघातेन न कार्यं कर्तृसाधनम् । प्रकृतेरन्तरज्ञानं पुंसो नित्यमथाऽन्यथा ॥८॥ नित्यत्वे सर्वदा मोक्षोऽनित्यत्वे न तदुद्भवः । कालवैपुल्ययोग्यत्वकुशलाभ्याससंभवे ॥९॥ आवृतिप्रक्षयाज्ज्ञानं सार्वश्यमुपजायते । सदहेतुकमस्तीह सदैव मादितत्त्ववत् ॥१०॥ आहारासक्तिचैतन्यं जन्मादौ मध्यवत्तथा। अन्त्यसामग्र्यवद्धेतुः संपूर्णः कार्यकृत्सदा ॥११॥ ज्योतिः साक्षात्कृतिः कश्चित् संपूर्णस्तत्त्ववेदने । ज्ञानपेक्षं प्रमेयस्य द्वैविध्यं न तु वास्तवम् ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy