________________
विभाग- २, न्यायावतारः
प्रमाणस्य फलं साक्षादज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥२८॥ अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥ २९ ॥ नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवर्त्मनि । सम्पूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते ॥३०॥ प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥३१॥
प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका । सर्वसंव्यवहर्तॄणां प्रसिद्धापि प्रकीर्त्तिता ॥३२॥
Jain Education International
For Personal & Private Use Only
४०३
www.jainelibrary.org