________________
४०२
विभाग- २, न्यायावतारः
साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्त्तव्यो हेतोर्गोचरदीपकः ॥१४॥ अन्यथा वाद्यभिप्रेतहेतुगोचरमोहितः । प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ॥१५॥ धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः । धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ॥ १६ ॥ हेतोस्तथोपपत्त्या वा स्यात् प्रयोगोऽन्यथापि वा । द्विविधो ऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥१७॥ साध्यसाधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्म्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः ॥ १८ ॥ साध्ये निवर्त्तमाने तु साधनस्याप्यसम्भवः । ख्याप्यते यत्र दृष्टान्तो वैधर्म्येणेति स स्मृतः ॥१९॥ अन्तर्व्याप्त्यैव साध्यस्य सिद्धेर्बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥ २०॥ प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः । लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः ॥ २१ ॥ अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसन्देहविपर्यासैस्तदाभता ॥ २२ ॥
असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥२३॥ साधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः साध्यादिविकलादयः ॥२४॥ वैधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥२५॥ वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् । दूषणं निरवद्ये तु दूषणाभासनामकम् ॥२६॥ सकलावरणमुक्तात्मकेवलं यत् प्रकाशते ।
प्रत्यक्षं सकलार्थात्मसततप्रतिभासनम् ॥२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org