________________
विभाग-२, न्यायावतारः
४०१
पू.आ.श्री सिद्धसेन दिवाकरसूरिजी कृतः
(१४)॥न्यायावतारः ॥ प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥१॥ प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥२॥ प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम्। तद्व्यामोहनिवृत्तिः स्याद् व्यामूढमनसामिह ॥३॥ अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरद् ज्ञेयं परोक्षं ग्रहणेक्षया ॥४॥ साध्याविनाभुनो( वो) लिङ्गात् साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवत् ॥५॥ न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद् विरुद्धवचनं यतः ॥६॥ सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् । प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिद्ध्यति ॥७॥ दृष्टेष्टाव्याहताद्वाक्यात् परमार्थाभिधायिनः। तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥८॥ आप्तोपज्ञमनुल्लयमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम् ॥९॥ स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थं मानमाख्यातं वाक्यं तदुपचारतः ॥१०॥ प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥१२॥ साध्याविनाभुवो हेतोर्वचो यत् प्रतिपादकम् । परार्थमनुमानं तत् पक्षादिवचनात्मकम् ॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org