________________
४००
विभाग-२, अनुमानमातृका
अज्ञातकतृका (१३)॥अनुमानमातृका ॥ अविनाभूताल्लिङ्गाद्विज्ञानं लिङ्गिनोऽनुमानं स्यात् । लिङ्गस्य लिङ्गिना सह या व्याप्तिः सोऽविनाभावः ॥१॥ यौगदृगपेक्षया तत्पञ्चांशं ते प्रतिज्ञया (१) हेतुः (२)। दृष्टान्तः (३) सोपनयो (४) निगमनम् (५) इति निगदिता विदुरैः ॥२॥ श्रितसाध्यधर्मपक्षाऽपरनामकर्मिगीः प्रतिज्ञाख्यः । प्रथमो यथेह पृथ्वीधरे बृहद्भानुरिति हेतुः ॥३॥ हेतुत्वाभिव्यञ्जकविभक्तिका लिङ्गवाग् यथा धूमात् । तद्व्याप्ते रुपदर्शनभूर्दृष्टान्तोऽथ सा द्वेधा ॥४॥ हेतौ सति साध्यस्याऽवश्यम्भावित्वमन्वयव्याप्तिः । यद्वद् धूमो यत्राऽग्निस्तत्रेत्यत्र पाकगृहम् ॥५॥ व्यतिरेकव्याप्तिः स्याद्धेतौ साध्येऽसति ध्रुवमभावः । यद्वद्यत्राग्निर्नो न तत्र धूमोऽपि कूपोऽत्र ॥६॥ धूमश्चात्रैत्युपसंहरणं हेतोश्च धम्मिणि तुरीयः। साध्यस्य तन्निगमनं स्यात्तस्मादग्निरत्रेति ॥७॥ हेत्वाभासाः पञ्चाऽसिद्धोऽनैकान्तिको विरुद्धश्च । कालात्ययाऽपदिष्टः प्रकरणसम इति मताश्चतुरैः ॥८॥ सोऽसिद्धश्चिद्रूपैरनिश्चिता पक्षवर्तिता यस्य । यद्वदनित्यः शब्दश्चक्षुर्दृश्यत्वतो घटवत् ॥९॥ स विरुद्धः साध्यविपर्ययेण सह यस्य जायते व्याप्तिः । यद्वच्छब्दो नित्यः कृतकत्वादन्तरिक्षमिव ॥१०॥ सोऽनैकान्तिकनामा पक्ष-सपक्षवदितो विपक्षं यः । व्योमवदव्ययशब्दं साधयत इव प्रमेयत्वम् ॥११॥ प्रत्यक्षादिनिराकृतसाध्यः कालात्ययापदिष्टाख्यः । जलवच्छीतलमनलं यथा पदार्थत्वतो वदतः ॥१२॥ साध्यविपर्यययोः स्यात्तुल्यः प्रकरणसमो यथा नित्यः । शब्दः पक्षसपक्षाऽन्यतरत्वादन्तरिक्षमिव ॥१३॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org