SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ विभाग-२, स्याद्वादभाषा ३९९ (६४) एतद्विपरीतोऽजीवः । स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः। (६५) पुद्गलाः स्पर्शरसगन्धवर्णवन्तः। (६६) स्पर्शा मुदृकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः। (६७) रसाः तिक्तकटुकषायाम्लमधुराः । गन्धौ सुरभ्यसुरभी । कृष्णादयो वर्णाः। (६८) शब्दबन्धसौक्ष्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः । (६९) पुद्गला द्वेधा परमाणवः स्कन्धाश्च । (७०) सत्कर्मपुद्गलाः पुण्यम् । (७१) तद्विरीतं तु पापम् । (७२) बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आस्रवः । (७३) तन्निरोधः संवरः। (७४) जीवस्य कर्मणा अन्योन्यानुगमात्मा संबन्धो बन्धः । (७५) बद्धस्य कर्मणः शाटो निर्जरा। (७६) देहादेरात्यन्तिको वियोगो मोक्षः। (७७) विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः । (७८) तत्प्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च । (७९) स्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतु मिच्छजिगीषुः। (८०) तत्त्वं प्रतिष्ठापयिषुस्तत्त्वनिर्णिनीषुः । (८१) अयं च द्वेधा स्वात्मनि परत्र च। (८२) प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ । (८३) प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म । (८४) वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्ति माध्यस्थ्यैरुभयाभिमताः सभ्याः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy