SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३९८ विभाग-२, स्याद्वादभाषा मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् विपरीतान्वयश्च यदपौरुषेयं तदमूर्ती विद्युदादिनातिप्रसङ्गात् । (४२) व्यतिरेकेऽसिद्धतव्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् विपरीतव्यतिरेकश्च यन्नामूर्तं तन्नापौरुषेयमिति । (४३) अनाप्तवचनप्रभवं ज्ञानमागमाभासः । (४४) सामान्यमेव विशेष एव तद्वयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः। (४५) प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः । द्रव्यार्थिकः पर्यायार्थिकश्च । (४६) आद्यो नैगमसङ्ग्रहव्यवहारभेदात् त्रेधा। (४७) अन्यान्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः। (४८) धर्मद्वयादीनामेकान्तिकप्रार्थक्याभिसन्धि गमाभासः। (४९) सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । (५०) द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिह्ववानस्तदाभासः । (५१) सद्विशेषप्रकाशको व्यवहारः। (५२) यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः । (५३) पर्यायार्थिकश्चतुर्धा । ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च । (५४) सर्वथाद्रव्यापलापी तदाभासः । (५५) कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । (५६) तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः । (५७) पर्यायध्वनिभेदादर्थनानात्वनिरूपकः समभिरूढः ॥ (५८) पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ (५९) क्रियाश्रयेण भेदप्ररूपणमेवम्भूतः। (६०) क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः । (६१) नयवाक्यमपि स्वविषये प्रवर्तमानं विधिनिषेधाभ्यां सप्तभङ्गीमनुव्रजति। (६२) चैतन्यलक्षणः परिणामी ज्ञानादिधर्मभिन्नाभिन्नः कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवांश्च जीवः । (६३) स च द्विविधो मुक्तः सांसारिकश्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy