________________
विभाग-२, स्याद्वादभाषा
३९७
(२२) तत्राविरुद्धोपलब्धिर्विधिसिद्धो षोढा, साध्येनाविरुद्धव्याप्यकार्य
कारणपूर्वचरोत्तरचरसहचरभेदात् । विरुद्धव्याप्याद्युपलब्धिः
प्रतिषेधे षोढा। (२३) अनुपलब्धेरपि द्वैरुप्यमविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च । (२४) तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्य
कारणपूर्वोत्तरसहचरानुपलब्धिभेदात् । (२५) विरुद्धानुपलब्धिर्विधौ पञ्चधा विरुद्धकार्यकारणस्वभावव्यापक
सहचरानुपलम्भभेदात् । (२६) आप्तवचनाज्जातमर्थज्ञानमागमः । उपचारादाप्तवचनं च । (२७) अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः। (२८) सहजसामर्थ्यसङ्केताभ्यामर्थबोध (निबन्ध) नं शब्दः । (२९) तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु । (३०) अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थिति
लक्षणपरिणामेनार्थक्रियोपपत्तेश्च । (३१) सामान्यं द्वधा तिर्यगूर्ध्वतादिभेदात् । (३२) विशेषश्च द्वेधा पर्यायव्यतिरेकभेदात् । (३३) अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् । (३४) तत्प्रमाणाद् भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः । (३५) प्रमाणस्वरुपादेरन्यत् तदाभासम् । (३६) अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पसमारोपाः
प्रमाणस्य स्वरूपाभासाः। (३७) असिद्धविरुद्धानैकान्तिका हेत्वाभासाः । (३८) प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् । (३९) विपरीतान्यथानुपपत्तिविरुद्धः, अनित्यः पुरुषः प्रत्यभिज्ञानादि
मत्त्वात् । (४०) विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः, अनित्यः शब्दः प्रमेयत्वात् । (४१) अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः अपौरुषेयः शब्दः
बात।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org