________________
३९६
विभाग-२, स्याद्वादभाषा
श्री शुभविजयगणीकृता
(१२) ॥ स्याद्वादभाषा ॥ (१) सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्रेयसाधिगमः। (२) जीवाजीवपुण्यपापाश्रवसंवरनि राबन्धमोक्षास्तत्त्वानि । (३) स्वपरव्यवसायि ज्ञानं प्रमाणम् । (४) तत्प्रामाण्यं स्वतः परतश्च । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यं । (५) तदितरत्त्वऽप्रामाण्यमिति । (६) तदुभयमुत्पतौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति । (७) तद् द्विविधं प्रत्यक्षं च परोक्षं च । स्पष्टं प्रत्यक्षम् । (८) तद् द्विविधं सांव्यवहारिकं पारमार्थिकं च । (९) तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियनिमित्तं च। (१०) एतद्वितयमवग्रहेहावायधारणाभेदादेकैकशश्चतुर्विकल्पम् । (११) पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् । तद्विकलं सकलं च । (१२) अस्पष्टं परोक्षम् । स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदात्पञ्च
प्रकारम् । (१३) अनुमानं द्विप्रकारं स्वार्थं परार्थं च । तत्र हेतुग्रहणसंबन्धस्मरण
कारणकं साध्यविज्ञानं स्वार्थम् । ' (१४) निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः । (१५) इष्टमबाधितमसिद्धं साध्यम्। (१६) पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् । हेतुप्रयोगस्तथोप
__पत्त्याऽन्यथानुपपत्त्यैव वा । (१७) प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः । स द्वेधाऽन्वयव्यतिरेकभेदात् । (१८) हेतोरुपसंहार उपनयः । (१९) प्रतिज्ञायास्तूपसंहारो निगमनम् । (२०) स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् । (२१) उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org