________________
विभाग-२, षड्दर्शनपरिक्रमः
३९५
सामान्यं भवति द्वेधा परं चैवाऽपरं तथा। प्र( पर )माणुषु वर्तन्ते विशेषा नित्यवृत्तयः ॥५३॥ भवेदयुतसिद्धानामाधाराधेयवर्तिनाम्। सम्बन्धः समवायाख्य इह प्रत्ययहेतुकः ॥५४॥ विषयेन्द्रियबुद्धीनां वपुषः सुख-दुःखयोः । अभावो( वा )दात्मसंस्थानं मुक्ति नै( ३ )यायिकैर्मता ॥५५॥ चतुर्विंशवैशेषिकगुणान्तर्गुणा(न्तरगुणा )नव । बुद्ध्यादयस्तदुच्छेदो मुक्तिर्वैशेषिकी तु सा ॥५६॥ आधार-भस्म-कोर को )पीन जटा-यज्ञोपवीतिनः। मन्त्राचारादिभेदेन चतुर्धा स्युस्तपस्विनः ॥५७॥ शैवाः पाशुपताश्चैव महाव्रतधरास्तथा। तुर्याः कालमुखा मुख्या भेदा एते तपस्विनाम् ॥५८॥ पञ्चभूतात्मकं वस्तु प्रत्यक्षं च प्रमाणकम् । नास्तिकानां मते नान्यदन्यत्रा( दत्रा)ऽमुत्र शुभाशुभम् ॥५९॥ प्रत्यक्षमविसंवादि ज्ञानमिन्द्रियगोचरम्। लिङ्गतोऽनुम( मि )तिधूमादिव वह्नेरवस्थितिः ॥६०॥ अनुमानं त्रिधा पूर्वं शेषं सामान्यतो यथा। दृष्टेः सस्यं नदीपूराद् वृष्टिरस्ताद्रवेर्गतिः ॥६१॥ ख्यातं सामान्यतः साध्यं साधनं चोपमा यथा । स्याद् गोवद् गवयः सास्नादिमत्त्वमुभयोरपि ॥६२॥ आगमश्चाऽऽप्तवचनं स च कस्याऽपि कोऽपि च । वाच्याप्रति( ती )तौ तत्सिद्ध्यै प्रोक्ताऽर्थापत्तिरुत्तमैः ॥६३॥ बहुपीनोऽह्नि नाऽश्नाति रात्रावित्यर्थतो यथा । पञ्चप्रमाणसामर्थ्य वस्तुसिद्धिरभावतः ॥६४॥ स्थापितं वादिभिः स्वं स्वं मतं तत्त्वप्रमाणतः । तत्त्वं सत्परमार्थेन प्रमाणं तत्त्वसाधकम् ॥६५॥ सन्तु सर्वाणि शास्त्राणि सरहस्यानि दूरतः । एकमप्यक्षरं सम्यक् शिक्षितं नैव निष्फलम् ॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org