________________
३९४
विभाग-२, षड्दर्शनपरिक्रमः
साङ्ख्यः शिखी जडी मुण्डी कषायाद्यम्बरोऽपि च । वेषे नी( नाऽऽ )स्थैव साङ्ख्यस्य पुनस्तत्त्वे महाग्रहः ॥३९॥ शैवस्य दर्शने तर्कावुभौ न्याय-विशेषको । न्याये षोडशतत्त्वी स्यात् षट्तत्त्वी च विशेषकैः (के) ॥४०॥ अन्योन्यतत्त्वान्तर्भावात् द्वयोर्भेदोऽस्ति नाऽस्ति वा । द्वयोरपि शिवो देवो नित्य( :) सृष्ट्यादिकारकः ॥४१॥ नैयायिकानां चत्वारि प्रमाणानि भवन्ति च । प्रत्यक्षमागमोऽन्यश्चाऽनुमानु(न )मुपमाऽपि च ॥४२॥ प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् । दृष्टान्तोऽप्यथ सिद्धान्तावयवौ तर्क - निर्णयौ ॥४३॥ वादो जल्पो वितण्डा च हेत्वाभासच्छलानि च । जातयो निग्रहस्थानानीति तत्त्वानि षोडश ॥४४॥ वैशेषके मते तावत् प्रमाणत्रितयं भवेत् । प्रत्यक्षमनुमानं च तृतीयकमथाऽऽगमः ॥४५॥ द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायश्च षट्तत्त्वी तद्व्याख्यानमथोच्यते ॥४६॥ द्रव्यं नवविधं प्रोक्तं पृथ्वी-जल-वह्नयस्तथा । पवनो गगनं कालो दिगात्मा मन इत्यपि ॥४७॥ नित्यानित्यानि चत्वारि कार्यकारणभावतः । मनो-दिग् (क) काल आत्मा च व्योम नित्यानि पञ्च तु ॥४८॥ स्पर्शो रूपं गन्धः सङ्ख्याऽथ परिमाणकम् । पृथक्त्वमथ योगः विभागोऽथ परत्र( त्व )कम् ॥४९॥ अपरत्वं बुद्धिसौख्ये (दुःखे)च्छे द्वेष-यत्नको । धर्मा-धर्मौ च संस्कारा गुरु( त्वं) द्रव इत्यपि ॥५०॥ स्नेहः शब्दो गुणा एवं विंशतिश्चतुरन्विता । अथ कर्माणि वक्षा( क्ष्या )मः प्रत्येकमभिधानतः ॥५१॥ उत्क्षेपणावक्षेपणा-कुञ्चन प्रसारणम् । गमनानीति कर्माणि पञ्चोक्तानि तदागमे ॥५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org