________________
विभाग-२, षड्दर्शनपरिक्रमः
३९३
क्षणिकाः सर्वसंस्काराः इति या वर वा )सना स्थिरा। स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥२६॥ प्रत्यक्षमनुमानं च प्रमाणद्वितयं पुनः । चतुःप्रस्थानका बौद्धाः ख्याता वैभाषिकादयः ॥२७॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते । सौत्रान्तिकेण प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ॥२८॥ आकारसहिता बुद्धिर्योगाचरस्य सम्मता। केवलं संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥२९॥ रागादिज्ञानसन्तानवासनोच्छेदसम्भवा। चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥३०॥ कृत्तिः कमण्डलुमौण्ड्यं चीरं पूर्वाह्नभोजनम् । सङ्घो रक्ताम्बरत्वं च शिश्र( श्रि )ये बौद्धभिक्षुभिः ॥३१॥ साङ्ख्ये देवः शिवः कैश्चिन्मत्तो(तो) नारायणः परैः । उभयो( :) सर्वमप्यन्यत्तत्त्वप्रभृतिकं समम् ॥३२॥ स( सा )ङ्ख्यानां स्युर्गुणाः सत्त्वं रजस्तम इति त्रयः । साम्यावस्था भवे(व)त्येषां त्रयाणां प्रकृति( तिः) पुनः ॥३३॥ प्रकृतेश्च महांस्तावदहङ्कारस्ततोऽपि च । पञ्च बुद्धीन्द्रियाणी स्युश्चक्षुरादीनि पञ्च च ॥३४॥ कर्मेन्द्रियाणि वाक्-पाणिचरणोपस्थपायवः । मनश्च पञ्च तन्मात्राः शब्द(ब्दो) रूपं रसस्तथा ॥३५॥ स्पर्शो गन्धोऽपि तेभ्यः स्यात् पृथ्व्याद्यं भूतपञ्चकम् । इयं प्रकृतिरेतस्यां परस्तु पुरुषो मतः ॥३६॥ पञ्च विंशतितत्त्वीयं नित्यं साङ्ख्यमते जगत् । प्रमाणत्रितयं चाऽत्र प्रत्यक्षमनुमाऽऽगमः ॥३७॥ यदे( दै)व ज्ञायते भेदः प्रकृते( :) पुरुषस्य च । मुक्तिरूक्ता तदा साङ्ख्यैः ख्यातिः सैव च भण्यते ॥३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org