SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३९२ विभाग- २, षड्दर्शनपरिक्रमः भुङ्क्ते न केवली न स्त्री मोक्षगेति दिगम्बराः । प्राहुरेषामयं भेदो महान् श्वेताम्बरैः समम् ॥१३॥ मीमांसकौ द्विधा कर्म - ब्रह्ममीमांसकस्ततः । वेदान्ती मन्यते ब्रह्म कर्म भट्ट - प्रभाकरौ ॥१४॥ प्रत्यक्षमनुमानं च वेदाश्चोपमया सह । अर्थापत्तिरभावश्च भट्टानां षट्प्रमाण्यसौ ॥ १५ ॥ प्रभाकरमते पञ्च तान्येवाऽभाववर्जनात् । अद्वैतवादी वेदान्ती प्रमाणं तु यथा तथा ॥१६॥ सर्वमेतदिदं ब्रह्म वेदान्तेऽद्वैतवादिनाम् । आत्मन्येव लयो मुक्तिर्वेदान्तिकमते मता ॥ १७॥ अकुकर्मा सषट्कर्मा शूद्रान्नादिविवर्जकः । ब्रह्मसूत्री द्विज भट्ट गृहस्थाश्रमसंस्थितः ॥ १८ ॥ भगवन्नामधेयास्तु द्विजा वेदान्तदर्शने । विप्रगेहभुजस्त्यक्तोपवीता ( ता ब्र ) ह्मवादिनः ॥ १९ ॥ चत्वारो भगवद्भेदाः कुटीचर - बहूदकौ । हंसः परमहंसश्चाऽधिकोऽमीषु परः परः ॥२०॥ बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् । आर्यसत्याख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥२१॥ दुःखमायतनं चैव ततः समुदयो मतः । मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥२२॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना सञ्ज्ञा संस्कारो रूपमेव च ॥२३॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशाऽऽयतनानि तु ॥२४॥ रागादीनां गणो यस्मात् समुदेति नृणां हृदि । आत्मा( त्मना ) ऽऽत्मीयस्वभावाख्यः स स्यात् समुदयः पुनः ॥२५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy